नमो हनुमते तुभ्यं नमो मारुतसूनवे । नमः श्रीरामभक्ताय श्यामास्याय च ते नमः ।।
नमो वानरवीराय सुग्रीवसख्यकारिणे । लंकाविदाहनार्थाय हेलासागरतारिणे ।।
सीताशोकविनाशाय राममुद्राधराय च । रावणान्तकुलच्छेदकारिणे ते नमो नमः ।।
मेघनादमखध्वंसकारिणे ते नमो नमः । अशोकवनविध्वंसकारिणे भयहारिणे ।।
वायुपुत्राय वीराय आकाशोदरगामिने । वनपालशिरश्छेदलंकाप्रासादभञ्जिने ।।
ज्वलत्कनकवर्णाय दीर्घलाङ्गूलधारिणे । सौमित्रिजयदात्रे च रामदूताय ते नमः ।।
अक्षस्य वधकर्त्रे च ब्रह्मपाशनिवारिणे । लक्ष्मणाङ्गमहाशक्तिघातक्षतविनाशिने ।।
रक्षोघ्नाय रिपुघ्नाय भूतघ्नाय च ते नमः । ऋक्षवानरवीरौघप्राणदाय नमो नमः ।।
परसैन्यबलघ्नाय शस्त्रास्त्रघ्नाय ते नमः । विषघ्नाय द्विषघ्नाय ज्वरघ्नाय च ते नमः ।।
महाभयरिपुघ्नाय भक्तत्राणैककारिणे । परप्रेरितमन्त्राणां यन्त्राणां स्तम्भकारिणे ।।
पयःपाषाणतरणकारणाय नमो नमः । बालार्कमण्डलग्रासकारिणे भवतारिणे ।।
नखायुधाय भीमाय दन्तायुधधराय च । रिपुमायाविनाशाय रामाज्ञालोकरक्षिणे ।।
प्रतिग्रामस्थितायाथ रक्षोभूतवधार्थिने । करालशैलशस्त्राय द्रुमशस्त्राय ते नमः ।।
बालैकब्रह्मचर्याय रुद्रमूर्तिधराय च । विहंगमाय सर्वाय वज्रदेहाय ते नमः ।।
कौपीनवाससे तुभ्यं रामभक्तिरताय च । दक्षिणाशाभास्कराय शतचन्द्रोदयात्मने ।।
कृत्याक्षतव्यथाघ्नाय सर्वक्लेशहराय च । स्वाम्याज्ञापार्थसंग्रामसंख्ये संजयधारिणे ।।
भक्तान्तदिव्यवादेषु संग्रामे जयदायिने । किल्किलाबुबुकोच्यारघोरशब्दकराय च ।।
सर्पाग्निव्याधिसंस्तम्भकारिणे वनचारिणे । सदा वनफलाहारसंतृप्ताय विशेषतः ।।
महार्णवशिलाबद्धसेतुबन्धाय ते नमः । वादे विवादे संग्रामे भये घोरे महावने ।।
सिंहव्याघ्रादिचौरेभ्यः स्तोत्रपाठाद् भयं न हि । दिव्ये भूतभये व्याधौ विषे स्थावरजङ्गमे ।।
राजशस्त्रभये चोग्रे तथा ग्रहभयेषु च । जले सर्वे महावृष्टौ दुर्भिक्षे प्राणसम्प्लवे ।।
पठेत् स्तोत्रं प्रमुच्येत भयेभ्यः सर्वतो नरः । तस्य क्वापि भयं नास्ति हनुमत्स्तवपाठतः ।।
सर्वदा वै त्रिकालं च पठनीयमिमं स्तवम् । सर्वान् कामानवाप्नोति नात्र कार्या विचारणा ।।
विभीषणकृतं स्तोत्रं तार्क्ष्येण समुदीरितम् । ये पठिष्यन्ति भक्त्या वै सिद्धयस्तत्करे स्थिताः ।।
।। इति श्रीसुदर्शनसंहितायां विभीषणगरुडसंवादे विभीषणकृतं श्रीहनुमत्स्तोत्रं सम्पूर्णम् ।।

No comments:
Post a Comment